विष्णु षट्पदि-Vishnu Shatpadi-अविनयमपनय विष्णो दमयAvinaymapanay vishno damay
विष्णु षट्पदि (HINDI/ENGLISH) अविनयमपनय विष्णो दमय मनः शमय विषयमृगतृष्णाम् । भूतदयां विस्तारय तारय संसारसागरतः ॥ 1 ॥ दिव्यधुनीमकरंदे परिमलपरिभोगसच्चिदानंदे । श्रीपतिपदारविंदे भवभयखेदच्छिदे वंदे ॥ 2 ॥ सत्यपि भेदापगमे नाथ तवाऽहं न मामकीनस्त्वं । सामुद्रो हि तरंगः क्वचन समुद्रो न तारंगः ॥ 3 ॥ उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे । दृष्टे भवति प्रभवति न भवति किं भवतिरस्कारः ॥ 4 ॥ मत्स्यादिभिरवतारैरवतारवताऽवता सदा वसुधां । परमेश्वर परिपाल्यो भवता भवतापभीतोऽहं ॥ 5 ॥ दामोदर गुणमंदिर सुंदरवदनारविंद गोविंद । भवजलधिमथनमंदर परमं दरमपनय त्वं मे ॥ 6 ॥ नारायण करुणामय शरणं करवाणि तावकौ चरणौ । इति षट्पदी मदीये वदनसरोजे सदा वसतु ॥ Avinyam Panay Vishnu Damay Manh Shamay Vishy Mrig Trishnam । ...