श्री हनुमदष्टकम् HANUMAN ASHTAKAM-श्रीरघुराजपदाब्जनिकेतन-Sri Raghurajpadabjniketan
श्री हनुमदष्टकम् श्रीरघुराजपदाब्जनिकेतन पंकजलोचन मंगलराशे, चंडमहाभुजदंड सुरारिविखंडनपंडित पाहि दयालो । पातकिनं च समुद्धर मां महतां हि सतामपि मानमुदारं त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदांबुजदास्यम् ॥ 1 ॥ संसृतितापमहानलदग्धतनूरुहमर्मतनोरतिवेलं, पुत्रधनस्वजनात्मगृहादिषु सक्तमतेरतिकिल्बिषमूर्तेः । केनचिदप्यमलेन पुराकृतपुण्यसुपुंजलवेन विभो वै त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदांबुजदास्यम् ॥ 2 ॥ संसृतिकूपमनल्पमघोरनिदाघनिदानमजस्रमशेषं, प्राप्य सुदुःखसहस्रभुजंगविषैकसमाकुलसर्वतनोर्मे । घोरमहाकृपणापदमेव गतस्य हरे पतितस्य भवाब्धौ, त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदांबुजदास्यम् ॥ 3 ॥ संसृतिसिंधुविशालकरालमहाबलकालझषग्रसनार्तं, व्यग्रसमग्रधियं कृपणं च महामदनक्रसुचक्रहृतासुम् । कालमहारसनोर्मिनिपीडितमुद्धर दीनमनन्यगतिं मां, त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदांबुजदास्यम् ॥ 4 ॥ संसृतिघोरमहागहने चरतो मणिरंजितपुण्यसु...