संदेश

Sri Krishnalila Stuti लेबल वाली पोस्ट दिखाई जा रही हैं

श्रीकृष्णलीलास्तुतिः।Sri Krishnalila Stuti-Nigmtaroh Pratishakhm Mrigitm Ch Mya Prm

चित्र
  श्रीकृष्णलीलास्तुतिः  निगमतरोः प्रतिशाखं मृगितं च मया परं ब्रह्म ।      मिलितमिदानीमङ्के गोकुलपङ्केरुहाक्षीणाम् ॥ 1॥ तप्तं तपोभिरन्यैः फलितं च तद्गोपबालानाम् ।      आसां यत्कुचकुम्भे नीलनिचोलायते परम्ब्रह्म ॥ 2॥ श्रुतिमपरे स्मृतिमपरे भारतमन्ये भजन्तु भवभीताः ।      अहमपि नन्दं वन्दे यस्यालिन्दे परम्ब्रह्म ॥ 3॥ किं कथयामः कस्मै कस्य मनः प्रत्ययमाधत्ते ।      रमयति गोपवधूटीकुञ्जकुटीरे परम्व्रह्म ॥ 4॥ नीतन्नीतं नवनवनीतं केन च पीतं पयः क्व मे मुरली ।      इति समुदीर्य लुठन्तं भूमौ बालं नमामि गोपालं सम्पूर्णम् । 5॥ पश्यत बलमबलानामनाविले हृद्बिले बबन्धुर्याः ।      तनुदृष्टिपातरश्म्याऽऽकृष्टममूर्तं परम्ब्रह्म ॥ 6॥ एतत्त्वामहमर्थयामि सततं रे चित्त चिन्तातुर      मा चिन्तां कुरु चञ्चलेषु विषयेष्वागारदारादिषु ।7 गायन्तं यमुनातटद्रुमतले नीलाम्बुदश्यामलं      गोपालं वनमालिनं कमलिनं नन्दात्मजं चिन्तय ॥ 8॥ ध्यानाभ्यासवशीकृतेन मनसा तन्निर्गुणं निष्क्रियं      ज्योतिः किञ्चन योगिनो यदि परं पश्यन्ति पश्यन्तु ते । 9 अस्माकं तु तदेव लोचनचमत्काराय भूयाच्चिरं      कालिन्दीपुलिनेषु तत्किमपि य