श्री कृष्णमधुराष्टकम।अधरं मधुरं वदनं मधुरं।Sri Krishn Madhurashtkm- Adharm Madhurm Vadanam Madhuram।
श्री कृष्णमधुराष्टकम(hindi/hindi Bhavarth/English) अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् | हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् || वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम् | चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् || वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ | नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम् || गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम् | रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम् || करणं मधुरं तरणं मधुरं हरणं मधुरं स्मरणं मधुरम् | वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम् || गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा | सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम् || गोपि मधुरा लीला मधुरा युक्तं मधुरं भुक्तं मधुरम् | दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरम् || गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा |...