संदेश

Om Sah Navavtu लेबल वाली पोस्ट दिखाई जा रही हैं

नारायण सूक्तम्-Narayan Suktam-ॐ सह नाववतु । सह नौ भुनक्तु-Om Sah Navavtu-Sah Nau Bhunktu

चित्र
नारायण सूक्तम् ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शांतिः शांतिः शांतिः ॥ सहस्रशीर्षं देवं विश्वाक्षं विश्वशंभुवम् ।      विश्वं नारायणं देवमक्षरं परमं पदम् । विश्वतः परमान्नित्यं विश्वं नारायणग्ं हरिम् ।      विश्वमेवेदं पुरुष-स्तद्विश्व-मुपजीवति । पतिं विश्वस्यात्मेश्वरग्ं शाश्वतग् शिव-मच्युतम् ।      नारायणं महाज्ञेयं विश्वात्मान परायणम् । नारायणपरो ज्योतिरात्मा नारायणः परः ।      नारायणपरं ब्रह्म तत्त्वं नारायणः परः । नारायणं ध्याता ध्यानं नारायणः परः ।      यच्च किंचिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा ॥ अंतर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ।      अनंतमव्ययं कविग्ं समुद्रेंऽतं विश्वशंभुवम् । पद्मकोश-प्रतीकाशग्ं हृदयं चाप्यधोमुखम् ।      अधो निष्ट्या वितस्यांते नाभ्यामुपरि तिष्ठति । ज्वालमालाकुलं भाती विश्वस्यायतनं महत् ।      संततग्ं शिलाभिस्तु लंबत्याकोशसन्निभम् । तस्यांते सुषिरग्ं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम् ।      तस्य मध्ये महानग्नि-र्विश्वार्चि-र्विश्वतोमुखः । सोऽग्रभुग्विभजंतिष्ठ-न्नाहारमजरः कविः ।