संदेश

श्री हनुमदष्टकम् लेबल वाली पोस्ट दिखाई जा रही हैं

श्री हनुमदष्टकम् HANUMAN ASHTAKAM-श्रीरघुराजपदाब्जनिकेतन-Sri Raghurajpadabjniketan

श्री हनुमदष्टकम् श्रीरघुराजपदाब्जनिकेतन पंकजलोचन मंगलराशे,      चंडमहाभुजदंड सुरारिविखंडनपंडित पाहि दयालो । पातकिनं च समुद्धर मां महतां हि सतामपि मानमुदारं      त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदांबुजदास्यम् ॥ 1 ॥ संसृतितापमहानलदग्धतनूरुहमर्मतनोरतिवेलं,      पुत्रधनस्वजनात्मगृहादिषु सक्तमतेरतिकिल्बिषमूर्तेः । केनचिदप्यमलेन पुराकृतपुण्यसुपुंजलवेन विभो वै      त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदांबुजदास्यम् ॥ 2 ॥ संसृतिकूपमनल्पमघोरनिदाघनिदानमजस्रमशेषं,    प्राप्य सुदुःखसहस्रभुजंगविषैकसमाकुलसर्वतनोर्मे । घोरमहाकृपणापदमेव गतस्य हरे पतितस्य भवाब्धौ,      त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदांबुजदास्यम् ॥ 3 ॥ संसृतिसिंधुविशालकरालमहाबलकालझषग्रसनार्तं,      व्यग्रसमग्रधियं कृपणं च महामदनक्रसुचक्रहृतासुम् । कालमहारसनोर्मिनिपीडितमुद्धर दीनमनन्यगतिं मां,      त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदांबुजदास्यम् ॥ 4 ॥ संसृतिघोरमहागहने चरतो मणिरंजितपुण्यसुमूर्तेः,      मन्मथभीकरघोरमहोग्रमृगप्रवरार्दितगात्रसुसंधेः । मत्सरतापविशेषनिपीडितबाह्यमतेश्च कथं चिदमेयं,