जगन्नाथाष्टकम् BAL Mukundashtakm ।कदाचि त्कालिंदी तटविपिनसंगीतकपरो-kadachit Tkalindi Tat ।

जगन्नाथाष्टकम्


कदाचि त्कालिंदी तटविपिनसंगीतकपरो, मुदा गोपीनारी वदनकमलास्वादमधुपः ।
    रमाशंभुब्रह्मा मरपतिगणेशार्चितपदो, जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥

भुजे सव्ये वेणुं शिरसि शिखिपिंछं कटितटे, दुकूलं नेत्रांते सहचर कटाक्षं विदधते ।
    सदा श्रीमद्बृंदा वनवसतिलीलापरिचयो, जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥

महांभोधेस्तीरे कनकरुचिरे नीलशिखरे, वसन्प्रासादांत -स्सहजबलभद्रेण बलिना ।
    सुभद्रामध्यस्थ स्सकलसुरसेवावसरदो, जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥

कथापारावारा स्सजलजलदश्रेणिरुचिरो, रमावाणीसौम स्सुरदमलपद्मोद्भवमुखैः ।
    सुरेंद्रै राराध्यः श्रुतिगणशिखागीतचरितो, जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥

रथारूढो गच्छ न्पथि मिलङतभूदेवपटलैः, स्तुतिप्रादुर्भावं प्रतिपद मुपाकर्ण्य सदयः ।
     दयासिंधु र्भानु स्सकलजगता सिंधुसुतया, जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥

परब्रह्मापीडः कुवलयदलोत्फुल्लनयनो, निवासी नीलाद्रौ निहितचरणोनंतशिरसि ।
     रसानंदो राधा सरसवपुरालिंगनसुखो, जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ 

न वै प्रार्थ्यं राज्यं न च कनकितां भोगविभवं, न याचे2 हं रम्यां निखिलजनकाम्यां वरवधूं ।
    सदा काले काले प्रमथपतिना चीतचरितो, जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥

हर त्वं संसारं द्रुततर मसारं सुरपते, हर त्वं पापानां वितति मपरां यादवपते ।
    अहो दीनानाथं निहित मचलं निश्चितपदं, जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥


टिप्पणियाँ